मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् २

संहिता

यो वा॑मश्विना॒ मन॑सो॒ जवी॑या॒न्रथ॒ः स्वश्वो॒ विश॑ आ॒जिगा॑ति ।
येन॒ गच्छ॑थः सु॒कृतो॑ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं॑ यातम् ॥

पदपाठः

यः । वा॒म् । अ॒श्वि॒ना॒ । मन॑सः । जवी॑यान् । रथः॑ । सु॒ऽअश्वः॑ । विशः॑ । आ॒ऽजिगा॑ति ।
येन॑ । गच्छ॑थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । तेन॑ । न॒रा॒ । व॒र्तिः । अ॒स्मभ्य॑म् । या॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ वां युवयोः स्वभूतो मनसो जवीयान् मनसोऽप्यतिशयेन वेगवान् स्वश्वः शोभनाश्व एवंभूतो यो रथो विशः प्रजा आजिगाति आभिमुख्येन गच्छति । येन रथेन सुकृतः शोभनं यागं कुर्वतो यजमानस्य दुरोणं देवयजनलक्षणं गृहं गच्छथः । हे नरा नेतारावश्विनौ तेन रथेनास्मभ्यमस्माकं वर्तिर्वर्तनाधिकरणं गृहं यातम् । आगच्छतं ॥ जवीयान् । जवोऽस्यास्तीति जववान् तदस्यास्तीति मतुप् । तत आतिशायनिक ईयसुन् । विन्मतोर्लुक् । टेरिति टलोपः । जिगाति । गा स्तुतौ । जौहोत्यादिकः । गतिकर्मसु पाठादत्र गत्यर्थः । बहुलं छंदसीत्यभ्यासस्येत्वं ॥ २ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३