मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् ३

संहिता

ऋषिं॑ नरा॒वंह॑स॒ः पाञ्च॑जन्यमृ॒बीसा॒दत्रिं॑ मुञ्चथो ग॒णेन॑ ।
मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दय॑न्ता ॥

पदपाठः

ऋषि॑म् । न॒रौ॒ । अंह॑सः । पाञ्च॑ऽजन्यम् । ऋ॒बीसा॑त् । अत्रि॑म् । मु॒ञ्च॒थः॒ । ग॒णेन॑ ।
मि॒नन्ता॑ । दस्योः॑ । अशि॑वस्य । मा॒याः । अ॒नु॒ऽपू॒र्वम् । वृ॒ष॒णा॒ । चो॒दय॑न्ता ॥

सायणभाष्यम्

हिमेनाग्निम् । ऋग्वे १-११६-८ । इत्यनयोक्त एवार्थः पुनः प्रकारांतरेणानया प्रतिपाद्यते । अतस्तत्रोक्तं सर्वमत्रापि द्रष्टव्यम् । अक्षरार्थस्तु । हे नरौ नेतारौ वृषणा कामानां वर्षितारावश्विनौ पांचजन्यम् । निषादपंचमाश्चत्वारो वर्णाः पंच जनाः । तेषु भवम् । स्वर्भानुना गृहीतममुं सूर्यं मोचयन्नत्रिः सर्वेषां हिताचरणात्तत्र भव इत्युच्यते । तादृशमृषिमंहसः पापरूपादृबीसात् शतद्वारे यंत्रगृहेऽत्रेः पीडार्थमसुरैः प्रक्षिप्तात्तुषाग्नेः सकाशाद्गणेनेंद्रियवर्गेण पुत्रपौत्रादिगणेन वा सह मुंचथः । अमोचयतम् । किं कुर्वंतौ । मिनंता शत्रून् हिंसंतौ दस्योरुपक्षपयितुरशिवस्य दुःखकारिणोऽसुरस्य संबंधिनीस्तस्मिन्नत्रौ प्रयुक्ता मायाश्चानुपूर्वमानुपूर्व्येण चोदयंता प्रेरयंतौ निवारयंतौ ॥ पांचजन्यम् । बहिर्देवपंचजनेभ्यश्चेति वक्तव्यम् । का ४-३-५८-१ । इति भवार्थे ञ्यः । मिनंता । मीञ् हिंसायाम् । क्रैयादिकः । लटः शतृ । मीनातेर्निगम इति ह्रस्वत्वं ॥ ३ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३