मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् ५

संहिता

सु॒षु॒प्वांसं॒ न निरृ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त॑म् ।
शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वन्द॑नाय ॥

पदपाठः

सु॒षु॒प्वांस॑म् । न । निःऽऋ॑तेः । उ॒पऽस्थे॑ । सूर्य॑म् । न । द॒स्रा॒ । तम॑सि । क्षि॒यन्त॑म् ।
शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द॑नाय ॥

सायणभाष्यम्

निर्ऋतिरिति भूनाम । निर्ऋतेः पृथिव्या उपस्थ उत्संगे सुषुप्वांसं सुप्तवंतं पुरुषमिव कूपमध्ये शयानं सूर्यं न सूर्यमिव । तमसि कूपांतर्गतांधकारे क्षियंतं निवसंतं सूर्यमिव तेजस्विनमित्यर्थः । शुभे शोभार्थं निर्मितं रुक्मं न रोचमानं सुवर्णमयाभरणमिव दर्शतं दर्शनीयं एवंगुणविशिष्टं कूपेऽसुरैर्निखातं वंदनाय वंदनमृषिं हे दस्रा दर्शनीयावश्विनौ युवामुदूपथुः । उद्धृतवंतौ ॥ सुषुप्वांसम् । ञिष्वपशये । लिटः क्वसुः । वचिस्वपीत्यादिना संप्रसारणं द्विर्वचनादि । उपस्थे । उपपूर्वात्तिष्ठतेर्घञर्थे कविधानमित्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । वंदनाय । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३