मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् ६

संहिता

तद्वां॑ नरा॒ शंस्यं॑ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् ।
श॒फादश्व॑स्य वा॒जिनो॒ जना॑य श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ मधू॑नाम् ॥

पदपाठः

तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । प॒ज्रि॒येण॑ । क॒क्षीव॑ता । ना॒स॒त्या॒ । परि॑ऽज्मन् ।
श॒फात् । अश्व॑स्य । वा॒जिनः॑ । जना॑य । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । मधू॑नाम् ॥

सायणभाष्यम्

हे नरा नेतारौ नासत्यावश्विनौ परिज्मन् परिगमनेऽभीष्टस्य प्रापणे निमित्तभूते सति पज्रियेण पज्राणामंगिरसां कुले जातेन कक्षीवता मया वां युवयोः संबंधि तत्कर्म शंस्यम् । प्रकर्षेण शंसनीयम् । तच्छब्द श्रुतेर्यच्छब्दाध्याहारः । यज्जनायापेक्षमाणाय पुरुषाय वाजिनो वेगवतस्तदीयस्याश्वस्य शफान्निर्गतैर्मधूनां मधुभिः शतसंख्याकान्कुंभानसिंचतम् । अपूरयतम् । सिंचतिरत्र पूरणार्थः । यदेतन्मधुना पूरणं तच्छंस्यमित्यर्थः ॥ ६ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४