मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् ८

संहिता

यु॒वं श्यावा॑य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या॑श्विना॒ कण्वा॑य ।
प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना॑र्ष॒दाय॒ श्रवो॑ अ॒ध्यध॑त्तम् ॥

पदपाठः

यु॒वम् । श्यावा॑य । रुश॑तीम् । अ॒द॒त्त॒म् । म॒हः । क्षो॒णस्य॑ । अ॒श्वि॒ना॒ । कण्वा॑य ।
प्र॒ऽवाच्य॑म् । तत् । वृ॒ष॒णा॒ । कृ॒तम् । वा॒म् । यत् । ना॒र्स॒दाय॑ । श्रवः॑ । अ॒धि॒ऽअध॑त्तम् ॥

सायणभाष्यम्

हे अश्विनौ युवं युवां श्यावाय कुष्ठरोगेण श्यामवर्णायर्षये रुशतीं दीप्तत्वचं स्त्रियमदत्तम् । प्रायच्छतम् । अपि च क्षोणस्य क्षोणाय दृष्टिराहित्येन गंतुमशक्तः सन्नेकस्मिन्नेव स्थाने निवसति तस्मै कण्वायर्षये महस्तेजस्तैजसं चक्षुरिंद्रयमदत्तमति शेषः । तथा हे वृषणा कामानां वर्षितारौ वां युवयोस्तत्कृतं कर्म प्रवाच्यम् । प्रकर्षेण वाचनीयं शंसनीयम् । नार्षदाय नृषदपुत्राय बधिरायर्षये श्रवः श्रवणेंद्रियं यदध्यधत्तम् । दत्तवंतौ स्थ इति यत् तदित्यर्थः । अपर आह । ब्राह्मणस्य परीक्षार्थमसुराः कण्वमृषिं गूढे तमसि निदधुः । अत्रैव स्थितः सन् व्युष्टामुषसं विजानीहि यदि त्वं ब्राह्मणोऽसीति । तमश्विनावागत्योचतुः । व्युष्टायां हर्म्यस्योपरि वीणां वादयंतावावामागमिष्यावः । तं शब्दं श्रुत्वा व्युष्टामुषसं ब्रूहि । तदेतत्प्रतिपाद्यते । हे वृषणा कामानां वर्षितारावश्विनौ वां युवयोस्तत्कृतं कर्म प्रवाच्यं प्रशंसनीयं यन्नार्षदाय नृषदपुत्राय कण्वाय क्षोणस्य । क्षोणः शब्दकारी वीणाविशेषः । महो महतः क्षोणस्य श्रवः शब्दमध्यधत्तं उषसो विज्ञानार्थमधिकमकुरुतं ॥ महः । मह पूजायाम् । अस्मादौणादि कोऽसिप्रत्ययः । पक्षांतरे तु महच्छब्दात् षष्ट्येकवचने छांदसोऽल्लोपः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । यद्वा । क्विबंतात् षष्ठ्येकवचनम् । क्षोणस्य । क्षि निवासगत्योः । कृत्यल्युटो बहुलमिति कर्तरि ल्युट् । पृषोदरादित्वात् । क्षोणभावः । तदुक्तं यास्केन । क्षोणस्य क्षयणस्य (नि ६-६) इति । पक्षांशरे तु टुक्षु शब्द इत्यस्मादौणादिको नप्रत्ययः । नार्षदाय । ऋष्यंधकेत्यण् ॥ ८ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४