मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् ९

संहिता

पु॒रू वर्पां॑स्यश्विना॒ दधा॑ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व॑म् ।
स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं॑ श्रव॒स्यं१॒॑ तरु॑त्रम् ॥

पदपाठः

पु॒रु । वर्पां॑सि । अ॒श्वि॒ना॒ । दधा॑ना । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।
स॒ह॒स्र॒ऽसाम् । वा॒जिन॑म् । अप्र॑तिऽइतम् । अ॒हि॒ऽहन॑म् । श्र॒व॒स्य॑म् । तरु॑त्रम् ॥

सायणभाष्यम्

हे अश्विनौ पुरु पुरूणि बहूनि वर्पांसि । रूपनामैतत् । आत्मीयैः कर्मभिः कृतानि रूपाणि दधाना धारयंतौ युवामाशुं शीघ्रगामिनमश्वं पेदवे पेदुनाम्ने स्तुवते न्यूहथुः । नितरां प्रापितवंतौ । दत्तवंतावित्यर्थः । कीदृशमश्वम् । सहस्रसाम् । सहस्रसंख्याकस्य धनस्य सनितारं दातारं वाजिनं बलवंतं अत एवाप्रतीतं शत्रुभिरप्रतिगतं अहिहनमहीनामागत्य हंतॄणां शत्रूणां शत्रून्वा हंतारं श्रवस्यम् । श्रवः श्रवणीयं स्तोत्रम् । तत्र भवम् । स्तुतिविषयमित्यर्थः । तरुत्रं तरितारं ॥ वर्पांसि । वृञ् वरणे । वृञ् शीङ्छ्यां रूपस्वांगयोः पुक्च । उ -४-२०० । इत्यसुन् पुगागमश्च । दधाना । दधातेर्लटः शानच् । अभ्यास्तानामादिरित्याद्युदात्तत्वम् । सहस्रसाम् । षणु दाने । जनसनखनेति विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । श्रवस्यम् । श्रवः शब्दाद्भवे छंदसीति यत् । तित्स्वरितः । तरुत्रम् । तॄ प्लवनतरणयोः । अशित्रादिभ्य इत्रोत्रौ (उ ४-१७२) इत्युत्रप्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । ग्रसितस्कभितेत्यादौ निपातनात्तृनंतात्तरुतृशब्दादमि संज्ञा पूर्वकस्य विधेरनित्यत्वाद्गुणाभावे यण् । नित्स्वरेणाद्युदात्तत्वं ॥ ९ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४