मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् ११

संहिता

सू॒नोर्माने॑नाश्विना गृणा॒ना वाजं॒ विप्रा॑य भुरणा॒ रद॑न्ता ।
अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां॑ नासत्यारिणीतम् ॥

पदपाठः

सू॒नोः । माने॑न । अ॒श्वि॒ना॒ । गृ॒णा॒ना । वाज॑म् । विप्रा॑य । भु॒र॒णा॒ । रद॑न्ता ।
अ॒गस्त्ये॑ । ब्रह्म॑णा । व॒वृ॒धा॒ना । सम् । वि॒श्पला॑म् । ना॒स॒त्या॒ । अ॒रि॒णी॒त॒म् ॥

सायणभाष्यम्

भुरणा भर्तारौ पोषकौ नासत्या सत्यस्वभावौ हे अश्विनौ सूनो कुंभात्प्रसूतस्यागस्त्यस्य खेलपुरोहितस्य संबंधिना मानेन स्तुत्यस्य परिच्छेदकेन स्तोत्रेण गृणाना स्तूयमानौ विप्राय मेधाविने भरद्वाजायर्षये वाजमन्नं रदंता विलिखंतौ निष्पादयंतौ युवं विश्पलां संग्रामे छिन्नजंघां खेलस्य संबंधिनीं स्त्रियं समरिणीतम् । पुनरायस्या जंघया समयोजयतम् । तृतीयेन पादेन प्रथमपादोक्तोऽर्थो विव्रियते । अगस्त्य ऋषौ ब्रह्मणा मंत्ररूपेण स्तोत्रेण ववृधाना प्रवर्धिताविति ॥ गृणाना । गॄ शब्दे । व्यत्ययेन कर्मणि कर्तृ प्रत्ययः । प्वादीनां ह्रस्वः । भुरणा । भुरण धारणपोषणयोः । कंड्वादिः पचाद्यच् । अतोलोपयलोपौ । सुपां सुलुगिति विभक्तेराकारः । आमंत्रितनिघातः । विप्रायेत्यस्य रदंतेत्यनेनासामर्थ्यान्न परांगवत्त्वम् । वावृधाना । वधेर्लिट कानच् । संहितायां छांदसमभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतुजान इतिवत् पदकालेऽपि स्यात् । अरिणीतम् । री गतिरेषणयोः । क्रैयादिकः । प्वादीनां ह्रस्वः ॥ ११ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५