मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १२

संहिता

कुह॒ यान्ता॑ सुष्टु॒तिं का॒व्यस्य॒ दिवो॑ नपाता वृषणा शयु॒त्रा ।
हिर॑ण्यस्येव क॒लशं॒ निखा॑त॒मुदू॑पथुर्दश॒मे अ॑श्वि॒नाह॑न् ॥

पदपाठः

कुह॑ । यान्ता॑ । सु॒ऽस्तु॒तिम् । का॒व्यस्य॑ । दिवः॑ । न॒पा॒ता॒ । वृ॒ष॒णा॒ । श॒यु॒ऽत्रा ।
हिर॑ण्यस्यऽइव । क॒लश॑म् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । द॒श॒मे । अ॒श्वि॒ना॒ । अह॑न् ॥

सायणभाष्यम्

पुरा खलूशनसः स्तुतिं गच्छंतावश्विनौ मार्गमध्ये कूपे पतितं रेभं दृष्ट्वातं कूपादुदतारयताम् । तदानीमश्विभ्यां गंतव्यं काव्यस्य निवासस्थानमजानन्नृषिरश्विनौ पृच्छति । हे दिवो नपाता द्योतमानस्य सूर्यस्य पुत्रौ वृषणा कामाभिवर्षकावश्विनौ कुह कुत्र शयुत्रा शयने निवासस्थाने वर्तमानस्य काव्यस्य भार्गवस्य सुष्टुतिं शोभनां स्तुतिं श्रोतुं यांता गच्छंतौ । यद्वा । शयुत्रेत्येतदश्विनोर्विशेषणम् । शयुनाम्नस्त्रायकौ युवाम् । हिरण्यस्येव कलशं यथा हिरण्यपूरितं कलशं भूम्यां निक्षिप्तं सर्वैर्दुर्ज्ञातं कश्चिदभिज्ञ उद्धरति एवमसुरैः कूपे निखातं दश रात्रीर्नवाहानि च तत्रैव निवसंतं रेभमवगत्य दशमेऽहन् हन्युदूपथुः । कूपादुन्नीतवंतौ । किं तन्निवासस्थानमिति प्रश्नः । रेभस्यानुक्तावपि दश रात्रीरशिवेन । ऋ-१-११६-२४ । इति मंत्रांतरसामर्थ्यात्प्रतीतिः । यद्वा । काव्यस्य स्तुतिं प्रति गच्छंतौ युवां कुह कस्मिन्स्थाने रेभं युवामुन्निन्यथुरिति प्रश्नः ॥ कुह । वा ह च छंदसीति सप्तम्यर्थे हप्रत्ययः । दिवो नपाता । सुबामंत्रिते परांगवत्सर इति परांगवद्भावेन षष्ठ्यंतस्यामंत्रितानुप्रवेशादामंत्रितस्य चेति पदद्वयसमुदायस्य षाष्ठिकमाद्युदात्तत्वम् । पादादित्वादाष्टमिकनिघाताभावः । नपादित्यपत्यनाम । न पातयतीति नपात् । नभ्राण्नपादिति नञः प्रकृतिभावः । सुपां सुलुगिति विभक्तेराकारः । शयुत्रा । अशित्रादिभ्य इत्रोत्राविति शीङ उत्रः । यद्यंतोदात्तता न स्यात् तर्ह्येवम् । शयुं त्रायेते इति शयुत्रौ । त्रैङ् पालने । आदेच इत्यात्वम् । आतोऽनुपसर्गे कः । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । निखातम् । खनु अवधारणे । अस्मात्कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । जनसनखनां सन्झलोरित्यात्वम् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । आहन् । सुपां सुलुगिति सप्तम्यालुक् । न ङिसंबुद्ध्योरिति नलोपप्रतिषेधः ॥ १२ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५