मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १३

संहिता

यु॒वं च्यवा॑नमश्विना॒ जर॑न्तं॒ पुन॒र्युवा॑नं चक्रथु॒ः शची॑भिः ।
यु॒वो रथं॑ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना॑सत्यावृणीत ॥

पदपाठः

यु॒वम् । च्यवा॑नम् । अ॒श्वि॒ना॒ । जर॑न्तम् । पुनः॑ । युवा॑नम् । च॒क्र॒थुः॒ । शची॑भिः ।
यु॒वोः । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । स॒ह । श्रि॒या । ना॒स॒त्या॒ । अ॒वृ॒णी॒त॒ ॥

सायणभाष्यम्

हे अश्विनौ युवं युवां शचीभिरात्मीयैर्भैषज्यलक्षणैः कर्मभिर्जरंतं जीर्यंतं च्यवानं स्तुतीनां च्यावयितारमेतत्संज्ञमृषिं युवानं पुनर्यौवनोपेतं चक्रथुः । कृतवंतौ । अपि च हे नासत्यावश्विनौ युवोर्युवयो रथं सूर्यस्य दुहिता सूर्यख्या श्रिया सह ऋक्सहस्ररूपया संपदा कांत्या वा सहावृणीत । समभजत । आगत्यारूढवतीत्यर्थः । आ वां रथं दुहिता । ऋ १-११६-१७ । इत्यत्र लिखितमाख्यानमत्रापि द्रष्टव्यं ॥ जरतम् । जॄ ष् वयोहानौ । व्यत्ययेन शप् । युवोः । युष्मच्घब्दात् षष्ठीद्विवचने व्यत्ययेन योऽचीति यत्वाभावे सति शेषे लोप इति दकारलोपः । अतो गुण इति पररूपत्वम् । एकादेश उदात्तेनोदात्तः । अवृणीत । वृङ् संभक्तौ । क्रैयादिकः ॥ १३ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५