मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् २१

संहिता

यवं॒ वृके॑णाश्विना॒ वप॒न्तेषं॑ दु॒हन्ता॒ मनु॑षाय दस्रा ।
अ॒भि दस्युं॒ बकु॑रेणा॒ धम॑न्तो॒रु ज्योति॑श्चक्रथु॒रार्या॑य ॥

पदपाठः

यव॑म् । वृके॑ण । अ॒श्वि॒न॒ । वप॑न्ता । इष॑म् । दु॒हन्ता॑ । मनु॑षाय । द॒स्रा॒ ।
अ॒भि । दस्यु॑म् । बकु॑रेण । धम॑न्ता । उ॒रु । ज्योतिः॑ । च॒क्र॒थुः॒ । आर्या॑य ॥

सायणभाष्यम्

अर्याय विदुषे । मनुषशब्दो मनुशब्दपर्यायः । मनुषाय मनवे मनोरर्थं हे दस्रा दर्शनीयावश्विनौ वृकेण लांगलेन कर्षकैः कृष्टदेशे यवं यवाद्युपलक्षितं सर्वं धान्यजातं वपंता वापयंतौ तथेषम् । अन्ननामैतत् । तत्कारणभूतं वृष्ट्युदकं च दुहंता मेघात्क्षारयंतौ तथा दस्युमुपक्षयकारिणमसुरपिशाचादिकं बकुरेण । बकुरो भासमानो वज्रः । तेनाभि धमंता । धमतिर्वधकर्मा । अभिघ्नंतौ एवं त्रिविधं कर्म कुर्वंतौ युवामुरु विस्तीर्णं ज्योतिः स्वकीयं तेजो माहात्म्यं चक्रथुः । कृतवंतौ दर्शितवंतावित्यर्थः । यद्वा । त्रिविधकर्माचरणेनार्याय विदुषे मनवे विस्तीर्ण सूर्याख्यं ज्योतिश्चक्रथुः । कृतवंतौ । जीवन् हि सूर्यं पश्यति । तद्धेतुभूतानि त्रीणि कर्माणि यवाभ्यां कृतानीति भावः । अत्र निरुक्तं बकुरो भास्करो भयंकरो भासमानो द्रवतीति वा । यवमिव वृकेणाश्विनौ निवपंतौ वृको लांगलं भवति विकर्तनादित्यादिक मनुसंधेयम् । नि ६-२६ ॥ मनुषाय । मनेरौणादिक उषन्प्रत्ययः ॥ २१ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७