मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् २२

संहिता

आ॒थ॒र्व॒णाया॑श्विना दधी॒चेऽश्व्यं॒ शिर॒ः प्रत्यै॑रयतम् ।
स वां॒ मधु॒ प्र वो॑चदृता॒यन्त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं॑ वाम् ॥

पदपाठः

आ॒थ॒र्व॒णाय॑ । अ॒श्वि॒ना॒ । द॒धी॒चे । अश्व्य॑म् । शिरः॑ । प्रति॑ । ऐ॒र॒य॒त॒म् ।
सः । वा॒म् । मधु॑ । प्र । वो॒च॒त् । ऋ॒त॒ऽयन् । त्वा॒ष्ट्रम् । यत् । द॒स्रौ॒ । अ॒पि॒ऽक॒क्ष्य॑म् । वा॒म् ॥

सायणभाष्यम्

तद्वां नरा सनये । ऋ १-११६-१२ । इत्यत्रोक्तमाख्यानमिहाप्यनुसंधेयम् । हे अश्विनौ आथर्वणायाथर्वणः पुत्राय दधीचे दध्यङ्नाम्ने महर्षयेऽश्व्यमश्वसंबंधि शिरः प्रत्यैरयतम् । प्रत्यधत्तम् । तदीयं मानुषं शिरः प्रच्छिद्यान्यत्र विधायाश्व्येन शिरसा तमृषिं समयोजयतमित्यर्थः । स च वां युवाभ्यां प्रवर्ग्यविद्यां मधुविद्यां च वक्ष्यामीति पुरा कृतां प्रतिज्ञां ऋतायन् सत्यामात्मन इच्छन् मधु मधुविद्यां त्वाष्ट्रं त्वष्वुरिंद्राल्लब्धं प्र वोचत् । प्रोक्तवान् । हे दस्रौ दर्शनीयावश्विनौ वां युवयोः संबंधि यदपिकक्ष्यं छिन्यस्य यज्ञशिरसः कक्षप्रदेशेन पुनःसंधानभूतं प्रवर्ग्यविद्याख्यं रहस्यं तदपि वां युवाभ्यां प्रावोचदित्यर्थः ॥ दधीचे । अंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । चतुर्थ्येकवचनेऽच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तस्यापवादत्वेन चाविति विभक्तेः पूर्वस्योदात्तत्वं प्राप्तम् । तस्याप्ययमपदवादः । अंचेश्छंदस्यसर्वनामस्थानमिति विभक्त्युदात्तत्वं ॥ २२ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७