मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् २४

संहिता

हिर॑ण्यहस्तमश्विना॒ ररा॑णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तम् ।
त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ॥

पदपाठः

हिर॑ण्यऽहस्तम् । अ॒श्वि॒ना॒ । ररा॑णा । पु॒त्रम् । न॒रा॒ । व॒ध्रि॒ऽम॒त्याः । अ॒द॒त्त॒म् ।
त्रिधा॑ । ह॒ । श्याव॑म् । अ॒श्वि॒ना॒ । विऽक॑स्तम् । उत् । जी॒वसे॑ । ऐ॒र॒य॒त॒म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥

सायणभाष्यम्

रराणा रममाणौ दातारौ वा नरा नेतारौ हे अश्विनौ हिरण्यहस्तं नाम पुत्रं वध्रिमत्या एतत्संज्ञायै ब्रह्मवादिन्या अदत्तम् । प्रायच्छतं ह । अपि च हे सुदानू शोभनदानावश्विनौ त्रिधा त्रेधा विकस्तं विच्छिन्नं श्यावाख्यमृषिं जीवसे जीवितुमुवैरयतम् । असुरैस्त्रेधा खंडितं शरीरं पुनरेकीकृत्योदगमयतमित्यर्थः ॥ रराणा । रमतेः शानचि बहुलं छंदसीति शपः श्लुः । व्यत्ययेन मकारस्यात्वम् । रातेर्वा व्यत्ययेन शानच् । पूर्ववत् श्लुः । वध्रिमत्याः चतुर्थ्यर्थे बहुलं छंदसीति षष्ठी । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसेप्रत्ययः ॥ २४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७