मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् २५

संहिता

ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् ।
ब्रह्म॑ कृ॒ण्वन्तो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

पदपाठः

ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वी॒र्या॑णि । प्र । पू॒र्व्याणि॑ । आ॒यवः॑ । अ॒वो॒च॒न् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । वृ॒ष॒णा॒ । यु॒वऽभ्या॑म् । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

सायणभाष्यम्

अश्विना हे अश्विनौ वां युवयोः संबंधीनि पूर्व्याणि प्रत्नान्येतानीदानीं मयोक्तानि वीर्याणि वीरकर्माण्यायवो मनुष्या मदीयाः पित्रादयः प्रावोचन् । उक्तवंतः । वयं च हे वृषणा कामाभिवर्षकावश्विनौ युवाभ्यां ब्रह्म मंत्रात्मकं स्तोत्रं कृण्वंतः कुर्वंतः सुवीरासः सुवीराः शोभनैर्वीरैः पुत्रादिभिरुपेताः संतो विदथं यज्ञ मावदेम । आभिमुख्येन स्तुतीरुच्चारयाम । यद्वा । विदथं वेदयंतमतिथिं तदपेक्षितप्रदानेना वदेम । आभिमुख्येन प्रियपूर्विकां वाचमुच्चारयाम ॥ कृण्वंतः । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । लटः शतृ । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारांतादेशश्च । अतो लोपे सति स्थानिवद्भावाल्लघूपदगुणाभावः । सुवीरासः । शोभना वीरा येषां ते तथोक्ताः । अज्जसेरसुक् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । विदथम् । विद ज्ञाने । रुविदिभ्यां किदित्यथप्रत्ययः ॥ २५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७