मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् १

संहिता

आ वां॒ रथो॑ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
यो मर्त्य॑स्य॒ मन॑सो॒ जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ॥

पदपाठः

आ । वा॒म् । रथः॑ । अ॒श्वि॒ना॒ । श्ये॒नऽप॑त्वा । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।
यः । मर्त्य॑स्य । मन॑सः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । वात॑ऽरंहाः ॥

सायणभाष्यम्

आ वामित्येकादशर्चं तृतीयं सूक्तं कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । तथा चानुक्रांतम् । आ वामेकादशेति ॥ पूर्वसूक्ताभ्यां सह प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

हे अश्विनौ वां युवयोः स्वभूतो रथोऽर्वाङस्मदभिमुखमा यातु । आगच्छतु । कीदृशो रथः । श्येनपत्वा । श्येना इत्यश्वनाम । शंसनीयगमनैरश्वैः पतन् गच्छन् । यद्वा । श्येनः पक्षी । स एव शीघ्रं पतन् । सुमृळीकः शोभनसुखयुक्तः स्ववान् धनवान् । हे वृषणौ कामानां वर्षितारावश्विनौ यो युष्मदीयो रथो मर्त्यस्य मनुष्यस्य मनसो जवीयानतिशयेन वेगवान् । तद्यथा वेगेन कृत्स्नं जगद्व्याप्नोति ततोऽप्यतिशयेन क्षणमात्रादेव सर्वं जगत्पर्यटतीत्यर्थः । त्रिवंधुरः । वंधुरं वेष्टितं सारथेः स्थानम् । त्रिप्रकारेण वंधुरेण युक्तः वातरंहावातस्य वायो रंहा वेग इव वेगो यस्य स तथोक्तः । अनेनाप्रतिहतगतित्वमुच्यते । स रथ इति पूर्वत्रान्वयः ॥ श्येनपत्वा । पत्लृ गतौ । अन्येभ्योऽपि दृश्यंत इति वनिप् । दासीभारादि ॥ यद्वा । दृशिग्रहणस्य विध्यंतरोपसंग्रहार्थत्वाद्भावे वनिप् । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवीयान् । जवोऽस्यास्तीति जववान् । अतिशयेन जववान् । अतिशायनिक ईयसुन् । विन्मतोर्लुक् । टीरिति टलोपः ॥ १ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८