मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् २

संहिता

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् ।
पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥

पदपाठः

त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । त्रि॒ऽच॒क्रेण॑ । सु॒ऽवृता॑ । आ । या॒त॒म् । अ॒र्वाक् ।
पिन्व॑तम् । गाः । जिन्व॑तम् । अर्व॑तः । नः॒ । व॒र्धय॑तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति॑ ॥

सायणभाष्यम्

त्रिवंधुरेण । वंधुरं सारथिस्थानम् । त्रिप्रकारवंधुरोपेतेन त्रिवृता त्रिधा वर्तमानेन त्रिचक्रेण चक्रत्रयोपेतेन सुवृता शोभनं गच्छता रथेनार्वागस्मदभिमुखमा यातम् । आगच्छतम् । आगत्य चास्मदीया गाः पिन्वतम् । पयसा पूरयतम् । नोऽस्माकमर्वतोऽश्वान् जिन्वतम् । प्रीणयतम् । अपि च हे अश्विनौ अस्मे अस्माकं वीरं पुत्रादिकं वर्धयतम् । प्रवृद्धं कुरुतं ॥ त्रिचक्रेण । त्रीणि चक्राणि यस्य स तथोक्तः । त्रिचक्रादीनां छंदस्युपसंख्यानम् । पा ६-२-१९९-१ । इत्युत्तरपदांतोदात्तत्वं ॥ २ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८