मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् ३

संहिता

प्र॒वद्या॑मना सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑ः ।
किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥

पदपाठः

प्र॒वत्ऽया॑मना । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ ।
किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥

सायणभाष्यम्

हे दस्रौ दर्शनीयावश्विनौ प्रवद्यामना प्रकृष्टगमनेन शीघ्रगामिना सुवृता शोभनवर्तनेन रथेनागत्याद्रेरादरं कुर्वतः स्तोतुरिमं श्लोकं स्तुतिलक्षणामिमां वाचं शृणुतम् । अंगाश्विना हे अश्विनौ पुराजाः पूर्वजाताश्चिरंतरना विप्रासो मेधाविनो वां युवामवर्तिं स्तोतॄणां दारिद्र्यं प्रति तत्परिहर्तुं गमिष्ठा गंतृशब्दात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयः स्विति तृलोपः । सुपां सुलुगिति विभक्तेराकाराः । आहुः । प्रत्ययस्वरः । पादादित्वान्निघाताभावः ॥ ३ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८