मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् ४

संहिता

आ वां॑ श्ये॒नासो॑ अश्विना वहन्तु॒ रथे॑ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः ।
ये अ॒प्तुरो॑ दि॒व्यासो॒ न गृध्रा॑ अ॒भि प्रयो॑ नासत्या॒ वह॑न्ति ॥

पदपाठः

आ । वा॒म् । श्ये॒नासः॑ । अ॒श्वि॒ना॒ । व॒ह॒न्तु॒ । रथे॑ । यु॒क्तासः॑ । आ॒शवः॑ । प॒त॒ङ्गाः ।
ये । अ॒प्ऽतुरः॑ । दि॒व्यासः॑ । न । गृध्राः॑ । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । वह॑न्ति ॥

सायणभाष्यम्

हे अश्विनौ रथे युक्तासः सारथिना वहनप्रदेशे योजिता अशवो व्याप्नुवंतः पतंगाः पतनसमर्थाः श्येनासः शंसनीयगमना अश्वा वां युवामा वहंतु । अस्मत्समीपमानयंतु । येऽश्वा अप्तुर अप इव त्वरूपेता दिव्यासो न गृध्रा अंतरिक्षे वर्तमाना गृध्राख्याः पक्षिण इव शीघ्रं गच्छंतो हे नासत्यौ युवां प्रयो हविर्लक्षणमन्नमभिलक्ष्य वहंति प्रापयंति । तादृशा इति पूर्वत्र संबंधः ॥ आप्तुरः । तुर त्वरणे । अप ??? पपदादस्मात् क्विप्चेति क्विप् ॥ ४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८