मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् ५

संहिता

आ वां॒ रथं॑ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य ।
परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो॑ वहन्त्वरु॒षा अ॒भीके॑ ॥

पदपाठः

आ । वा॒म् । रथ॑म् । यु॒व॒तिः । ति॒ष्ठ॒त् । अत्र॑ । जु॒ष्ट्वी । न॒रा॒ । दु॒हि॒ता । सूर्य॑स्य ।
परि॑ । वा॒म् । अश्वाः॑ । वपु॑षः । प॒त॒ङ्गाः । वयः॑ । व॒ह॒न्तु॒ । अ॒रु॒षाः । अ॒भीके॑ ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ युवतिस्तरुणी सूर्यस्य दुहिता जुष्ट्वी प्रीता सती वां युवयोरत्रेमं रथमा तिष्ठत् । आरूढवती । तया सहितौ वां युवामश्वा अभीके गृहसमीपे तं रथं परि वहंतु । परिप्रापयंतु । कीदृशा अश्वाः । वपुषः । वपुरिति रूपस्य शरीरस्य वा नामधेयम् । तद्वंतः । छांदसो मत्वर्थीयस्य लोपः । पतंगा उत्पतनसमर्थाः वयो गच्छंतः अरुषा आरोचमाना हिंसकरहिता वा ॥ अत्र । इतराभ्योऽपि दृश्यंते (पा ५-३-१४) इति दृशिग्रहणाद्भवदाद्ययोगेऽपीदंशब्दाद्विभक्त्यर्थे त्रल्प्रत्ययः । जुष्ट्वी । जुषी प्रीतिसेवनयोः । औणादिकः क्तुप्रत्ययः । वोतो गुणवचनादिति ङीष् ॥ ५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८