मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् ९

संहिता

यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व॑म् ।
जो॒हूत्र॑म॒र्यो अ॒भिभू॑तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व॑ङ्गम् ॥

पदपाठः

यु॒वम् । श्वे॒तम् । पे॒दवे॑ । इन्द्र॑ऽजूतम् । अ॒हि॒ऽहन॑म् । अ॒श्वि॒ना॒ । अ॒द॒त्त॒म् । अश्व॑म् ।
जो॒हूत्र॑म् । अ॒र्यः । अ॒भिऽभू॑तिम् । उ॒ग्रम् । स॒ह॒स्र॒ऽसाम् । वृष॑णम् । वी॒ळुऽअ॑ङ्गम् ॥

सायणभाष्यम्

अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे युवं युवां श्वेतवर्णं कंचिदश्वमदत्तम् । प्रायच्छतम् । कीदृशम् । इंद्रजूतमिंद्रेण युवाभ्यां गमितम् । दत्तमित्यर्थः । अहिहनं शत्रूणां हंतारं जोहूत्रमतिशयेन संग्रामेष्वाह्वातारं अर्योऽरे शत्रोरभिभूतिमभिभावुकं उग्रमुद्गूर्णम् । वीर्यवंतमित्यर्थः । सहस्रसां सहस्रसंख्याकस्य धनस्य संभक्तारं दातारं वा वृषणं सेक्तारम् । युवानमित्यर्थः । वीड्वंगं दृढांगं ॥ इंद्रजूतम् । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादंतर्भावितण्यर्थात्कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । जोहूत्रम् । ह्वयतेर्यङ्लुगंतादौणादिकस्त्रप् प्रत्ययः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अर्यः । अरिशब्दात् षष्ठ्येकवचने जसादिषु छंदसि वावचन मिति घेर्ङितीति गुणस्य विकल्पितत्वादभावे यणादेशः । उदात्तयण इति विभक्तेरुदात्तत्वम् । अभिभूतिम् । अभिभूयतेऽनेनेत्यभिभूतिः । करणे क्तिन् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । सहस्रसाम् । सनोतेः सनतेर्वा जनसनखनेति विट् । विड्वनोरनुनासिकस्यादित्यात्वं ॥ ९ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९