मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् १०

संहिता

ता वां॑ नरा॒ स्वव॑से सुजा॒ता हवा॑महे अश्विना॒ नाध॑मानाः ।
आ न॒ उप॒ वसु॑मता॒ रथे॑न॒ गिरो॑ जुषा॒णा सु॑वि॒ताय॑ यातम् ॥

पदपाठः

ता । वा॒म् । न॒रा॒ । सु । अव॑से । सु॒ऽजा॒ता । हवा॑महे । अ॒श्वि॒ना॒ । नाध॑मानाः ।
आ । नः॒ । उप॑ । वसु॑ऽमता । रथे॑न । गिरः॑ । जु॒षा॒णा । सु॒वि॒ताय॑ । या॒त॒म् ॥

सायणभाष्यम्

नरा नेतारौ हे अश्विनौ सुजाता शोभनजन्मानौ ता वां तौ युवां नाधमाना धनं याचमाना वयं स्तोतारोऽवसे रक्षणार्थं सु हवामहे । शोभन माह्वयामहे । गिरः स्तुतीर्जुषाणा सेवमानौ युवां वसुमता धनयुक्तेन रथेन नोऽस्मानुपा यातम् । उपागच्छतम् । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय धनाय सुखाय वा ॥ सुजाता । शोभनं जातं जन्म ययोस्तौ सुजातौ । सुपां सुलुगिति विभक्तेराकारः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । नाधमानाः । नाधृ याच्ञायाम् । जुषाणा । जुषी प्रीतिसेवनयोः । ताच्छीलिकश्चानश् । तुदादित्वाच्छः । पूर्ववद्विभक्तेराकारः । सुविताय । सुपूर्वादेतेः कर्मणि निष्ठा । तन्वादित्वादुवङ् । सूपमानात् क्त इत्युत्तरपदांतोदात्तत्वं ॥ १० ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९