मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११८, ऋक् ११

संहिता

आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या॑तं नासत्या स॒जोषा॑ः ।
हवे॒ हि वा॑मश्विना रा॒तह॑व्यः शश्वत्त॒माया॑ उ॒षसो॒ व्यु॑ष्टौ ॥

पदपाठः

आ । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अ॒स्मे इति॑ । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोषाः॑॑ ।
हवे॑ । हि । वा॒म् । अ॒श्वि॒ना॒ । रा॒तऽह॑व्यः । श॒श्व॒त्ऽत॒मायाः॑ । उ॒षसः॑ । विऽउ॑ष्टौ ॥

सायणभाष्यम्

हे नासत्यावश्विनौ सजोषाः सजोषसौ समानप्रीतियुक्तौ श्येनस्य शंसनीयं गच्छतोऽश्वस्य नूतनेन नवतरेण प्रत्यग्रेण जवसा वेगेन सहितौ युवामस्मे अस्माना यातम् । आगच्छतम् । अश्विना हे अश्विनौ रातहव्यो वां युवाभ्यां दातव्येन हविषा युक्तः सन् शश्वत्तमायाः कालात्मकतया नित्याया उषसो व्युष्टौ विवासनसमये वां युवां हवे । आह्वयामि । हिर्हेतौ । हि यस्मादेवं तस्मादा यातमित्यर्थः ॥ अस्मे । सुपां सुलुगिति शसः शेआदेशः । सजोषाः । तेनैव द्विवचनस्य सुआदेशः । हवे । ह्वेञो लडुत्तमैकवचने बहुलं छंदसीति संप्रसारणम् । शब्गुणावादेशाः । शश्वत्तमायाः । उत्तमशश्वत्तमौ सर्वत्र (पा ६-१-१६०) इत्युंछादिषु पाठादंतोदात्तत्वं ॥ ११ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९