मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११९, ऋक् २

संहिता

ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिशः॑ ।
स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥

पदपाठः

ऊ॒र्ध्वा । धी॒तिः । प्रति॑ । अ॒स्य॒ । प्रऽया॑मनि । अधा॑यि । शस्म॑न् । सम् । अ॒य॒न्ते॒ । आ । दिशः॑ ।
स्वदा॑मि । घ॒र्मम् । प्रति॑ । य॒न्ति॒ । ऊ॒तयः॑ । आ । वा॒म् । ऊ॒र्जानी॑ । रथ॑म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥

सायणभाष्यम्

अस्य रथस्य प्रयामनि प्रयाणे प्रगमने सति शस्मन् अश्विनो शंसने स्तवने धीतिरस्मदीया बुद्धिरूर्ध्वोन्मुखा प्रत्यधायि । प्रत्यस्थायि । तदनंतरं दिशो देष्टव्याः स्तुतयोऽपि समयंते । अश्विभ्यां संगच्छंते । आकारः समुच्छये । अहं च स्तोता घर्मं महावीरस्थं यद्वा क्षरणशीलाज्यादिकं हविः स्वधामि । स्वादूकरोमि । ऊतयोऽवितारो रक्षका ऋत्विजश्च प्रति यंति । घर्मं प्रति गच्छंति संस्कारार्थम् । अपि च हे अश्विनौ वां युवयो रथमूर्जानी सूर्यस्य दुहितारुहत् । आरूढवती ॥ प्रयामनि । या प्रापणे । आतो मनिन्निति कृत्यल्युटो बहुलमिति बहुलवचनाद्भावे मनिन् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तस्मन् । तंसु स्तुतौ । अन्येभ्योऽपि दृश्यंत इति मनिन् । दृशिग्रहणस्य विध्यंतरोपसंग्रहार्थत्वादुपधानकारलोपः । सुपां सुलुगिति सप्तम्या लुक् । अयंते । अय पय गतौ । भौवादिकोऽनुदात्तेत् । ऊतयः । क्तिच् क्तौ च संज्ञायामित्यवतेः कर्तरि क्तिच् । ज्वरत्व रेत्यादिना वकारोपधयोरूट् । अरुहत् । कृमृदृरुहिभ्य इति च्लेरङादेशः ॥ २ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०