मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११९, ऋक् ३

संहिता

सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥

पदपाठः

सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ ।
यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥

सायणभाष्यम्

मखा मखवंतो यज्ञोपेता अमिता अपरिमिता जायवो जयशीला मनुष्या रणे संग्रामे शुभे शोभनाय धनाय तदर्थं मिथः पस्पृधानासोऽन्योन्यं स्पर्धमाना यद्यदा समग्मत संगच्छंते तदानीं हे अश्विना अश्विनौ युवोरह युवोरेव रथः प्रवणे प्रकर्षेण संभजनीये भूतले चेकिते । ज्ञायते । देवेषु मध्ये युवामेव रक्षणार्थं शीघ्रं रथेनागच्छथ इत्यर्थः । यद्येन रथेन सूरि स्तोतारं प्रति वरं श्रेष्ठं धनमावहथः प्रापयथः । स रथ इत्यर्थः ॥ पस्पृधानासः । स्पर्ध संघर्षे । छांदसो लिट् । तस्य लिटः कानजादेशः । छांदसं रेफस्य संप्रसारणमकारलोपश्च । अग्मत । गमेश्छांदसो लङ् । नमो गम्यृच्छीत्यादिनात्मनेपदम् । बहुलं छंदसीति शपो लुक् । झस्यादादेशः । गमहनेत्युपधालोपः । मखाः । मखो यज्ञः । अर्शआदित्वादच् । जायवः । जि जये । कृवापाजीत्यादिनोण् । चेकिते । कित ज्ञाने । अस्माद्यङंताच्छांदसो वर्तमाने लिट् । अतोलोपयलोपौ । यत् । सुपां सुलुगिति तृतीयायालुक् ॥ ३ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०