मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११९, ऋक् ४

संहिता

यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ ।
या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥

पदपाठः

यु॒वम् । भु॒ज्युम् । भु॒रमा॑णम् । विऽभिः॑ । ग॒तम् । स्वयु॑क्तिऽभिः । नि॒ऽवह॑न्ता । पि॒तृऽभ्यः॑ । आ ।
या॒सि॒ष्टम् । व॒र्तिः । वृ॒ष॒णा॒ । वि॒ऽजे॒न्य॑म् । दिवः॑ऽदासाय । महि॑ । चे॒ति॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

वृषणा कामानां वर्षितारौ हे अश्विनौ युवं युवां भुरमाणं विभरश्वैर्भ्रियमाणं गतं समुद्रे निमग्नं भुज्युं तुग्रपुत्रं स्वयुक्तिभिः स्वयमेव युज्यमानैरश्वैर्नौविशेषैश्च निवहंता नितरां वहंतौ पितृभ्य आ । आङ् मर्यादायाम् । यत्र पितरस्तुग्रादय आसते तावत्पर्यंतमित्यर्थः । विजेन्यमिति दूरस्थं ब्रुवते । दूरे वर्तमानं वर्तिस्तुग्रस्य गृहं प्रति यासिष्टम् । अगच्छतम् । आपि च दिवोदासाय राज्ञे कृतं युवयोः संबंध्यवो रक्षणं शंबरहननरूपं महि महद्गंभीरं चेति । अस्माभिर्ज्ञायते ॥ भुरमाणम् । डुभृञ् धारणपोषणयोः । कर्मणि लटः शानच् । व्यत्ययेन शः । बहुलं छंदसीत्युत्वम् । पितृभ्य आ । मर्यादायामाजिः कर्मप्रवचनीयसंज्ञा (पा १-४-८९) पंचम्यपाङ् परिभिः (पा २-३-१०) इति पंचमी । यासिष्टं या प्रापणे । यमरमनमातां सक्च (पा ७-२-७३) इति सगागमः । सिच इडागमः । विजेन्यम् । विजनो दूरदेशः । तत्र भवं विजेन्यम् । भवे छंदसीति यत् । तित्स्वरित इति स्वरितत्वं ॥ ४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०