यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्य॑म् ।
आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥
यु॒वोः । अ॒श्वि॒ना॒ । वपु॑षे । यु॒वा॒ऽयुज॑म् । रथ॑म् । वाणी॒ इति॑ । ये॒म॒तुः॒ । अ॒स्य॒ । शर्ध्य॑म् ।
आ । वा॒म् । प॒ति॒ऽत्वम् । स॒ख्याय॑ । ज॒ग्मुषी॑ । योषा॑ । अ॒वृ॒णी॒त॒ । जेन्या॑ । यु॒वाम् । पती॒ इति॑ ॥
अश्विना हे अश्विनौ युवोर्युवयोर्वाणी वननीयौ प्रशस्यावश्वौ युवायुजं युवाभ्यां युज्यमानं रथमाजिधावनसमयेऽस्य रथस्य यच्छर्ध्यं प्राप्यमादित्याख्यमवधिभूतं लक्ष्यं वपुषे शोभार्थं तद्येमतुः । सर्वेभ्यो देवेभ्यः पूर्वं प्रापयामासतुः । तदनंतरं चा जग्मुष्यागतवती जेन्याजिधावनेन जीयमाना योषा सूर्या सख्याय सखित्वाय युवां युवयोः पतित्वमवृणीत । कथमिति । मम युवामेव पती भर्ताराविति ॥ युवोः । षष्ठीद्विवचने योऽचीति यत्वस्य सर्वविधीनां छंदसि विकल्पितत्वादभावे शेषे लोप इति दकार लोपः । अतो गुण इति पररूपत्वम् । युवायुजम् । युवावौ द्विवचन इति द्व्यर्थाभिधायकस्य युष्मच्छब्दस्याविभक्तावपि व्यत्ययेन युवादेशः । शर्ध्यम् । शृधु प्रसहने । अस्माण्ण्यंतादचो यदिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । जग्मुषी । गमेर्लिटः क्वसुः । उगितश्चेति ङीप् । वसो संप्रसारणमिति संप्रसारणम् । गमहनेत्युपधालोपः । जेन्या । जि जये । औणादिक एन्यप्रत्ययष्विलोपश्च ॥ ५ ॥