मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् ५

संहिता

प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् ।
प्रैष॒युर्न वि॒द्वान् ॥

पदपाठः

प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् ।
प्र । इ॒ष॒ऽयुः । न । वि॒द्वान् ॥

सायणभाष्यम्

हे अश्विनौ प्र भवति समर्था भवति सा वाक् या वाग्युष्मत्स्तुतिरूपा घोषे घोषाख्यायाः पुत्रे सुहस्त्याख्यं ऋषौ भृगवाणे न भृगौ च शोभे शोभते । यया च स्तुतिलक्षणया वाचा पज्रियः । पज्रा अंगिरसः । तेषां कुलोत्पन्नः । कक्षीवान्वां युवां यजति पूजयति स्तौति । सापि शोभत इत्यर्थः । इषयुर्न इषमन्नमात्मनः कामयमानश्च विद्वान् स्तुत्यभिज्ञः कक्षीवानृषिः प्र भवतु । युष्मदनुग्रहात्संपूर्णकामो भवत्वित्यर्थः ॥ घोषे । घोषा नाम काचिद्ब्रह्मवादिनी कक्षीवतः पुत्री । अत्रोपचारात्तद्वाचकं प्रातिपदिकं पुत्रे वर्तते । भृगवाणे । चिरंतनो भृगुरिवाचरति । सर्वप्रातिपदिकेभ्य इति क्विप् । धातुसंज्ञायां व्यत्ययेन लटः शानच् । शबादि । आगमानुशासनस्यानित्यत्वान्मुगभावः । वृषादिः । शोभे । शुभ दीप्तौ । लोपस्त आत्मनेपदेष्विति तलोपः । इषयुः । इष गतौ । इष्यति गच्छतीतीषमन्नम् । इगुपधलक्षणः कः । यद्वा । इषु इच्छायाम् । इष्यते सर्वैः प्राणिभिरितीषमन्नम् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्रशब्देन संहितायां प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या । पा ६-१-८९-४ । इति वृद्धिः ॥ ५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२