मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् ८

संहिता

मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः ।
स्त॒ना॒भुजो॒ अशि॑श्वीः ॥

पदपाठः

मा । कस्मै॑ । धा॒त॒म् । अ॒भि । अ॒मि॒त्रिणे॑ । नः॒ । मा । अ॒कुत्र॑ । नः॒ । गृ॒हेभ्यः॑ । धे॒नवः॑ । गुः॒ ।
स्त॒न॒ऽभुजः॑ । अशि॑श्वीः ॥

सायणभाष्यम्

हे अश्विनौ अमित्रिणे । आमित्रं मित्रराहित्यम् । तद्वते कस्मै चिदपि शत्रवे नोऽस्मान्माभि धातम् । आभिमुख्येन मा स्थापयतम् । अपि च नोऽस्माकं गृहेभ्यः सकाशात्स्तनाभुजः स्तनैर्वत्सान्मनुष्यांश्च पालयंत्यो धेनवो गावोऽशिश्वेः शिशना वत्सेन विरहिता अस्मदीये गृहेऽशयाना वा सत्योऽकुत्र चिदस्माभिरगम्ये प्रदेशे मा गुः । मा गच्छंतु ॥ धातम् । धाञो माङि लुङि गातिस्थेति सिचो लुक् । न माङ्योग इत्यडभावः । अकुत्र । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । गुः । इण् गतौ । इणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । आत इति झेर्जुस् । स्तनाभुजः । भुज पालनाभ्यवहारयोः । स्तनैर्भुंजंति पालयंतीति स्तनाभुजः । क्विप् । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । अशिश्वीः । सख्यशिश्वीति भाषायाम् (पा ४-१-६२) इति छंदस्यपि व्यत्ययेन निपातनं द्रष्टव्यम् । यद्वा । शिशुरस्यास्तीति शश्वी । छंदसीवनिपाविति मत्वर्थीय ईकारः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । वा छंदसीति पूर्वसवर्णदीर्घः । अथवा । शीङ् स्वप्ने । उत्सर्गश्छंदसीति किप्रत्ययः । द्विर्वचनह्रस्वते । एरनेकाच इति यण् । छांदसो वकारः । पूर्ववत्समासस्वरौ ॥ ८ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३