मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् ९

संहिता

दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै ।
इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥

पदपाठः

दु॒ही॒यन् । मि॒त्रऽधि॑तये । यु॒वाकु॑ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज॑ऽवत्यै ।
इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒ऽमत्यै॑ ॥

सायणभाष्यम्

हे अश्विनौ युवाकु युवां कामयमानाः स्तुतिभिर्यावयितारः संयोजयितारो वा स्तोतारो मित्रधितये मित्राणां बंधुजनानां धारणार्थं दुहीयन् । युष्मत्सकाशाद्धनानि दुहंति प्राप्नुवंति । अतो नोऽस्मानपि वाजवत्यै वाजयुक्ताय च राये धनाय मिमीतम् । कुरुतम् । तथा धेनुमत्यै धेनुभिर्यु क्तायेषेऽन्नाय च नोऽस्मान्मिमीतम् । कुरुतम् । अस्मभ्यं स्तोतृभ्यो बलयुक्तं धनं गोयुक्तमन्नं च प्रयच्छतमित्यर्थः ॥ दुहीयन् । दुह प्रपूरणे । दुहिर्दोहः । इगुपधात्कित् (उ ४-११९) इति भाव इप्रत्ययः । दुहिमात्मन इच्छति दुहीयति । सुप आत्मनः क्यच् । दुहीयतेर्लेट्यडागमः । इतश्च लोप इतीकारलोपः । यद्वा । दुहेर्लिङि झस्य रन् (पा ३-४-१०५) इति व्यत्ययेन रनादेशाभावे । रूपमेतत् । छांदसोंऽत्यलोपः । यद्वा । रनादेशे कृते छांदसो रेफस्य यकारः । अत एव व्युत्पत्त्य नवधारणान्नावगृण्हंति । युवाकु । सुपां सुलुगिति जसो लुक् । मिमीतम् । माङ् माने शब्दे च । जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । भृञामिदित्यभ्यासस्येत्वम् । चवायोगे प्रथमेति निघात प्रतिषेधः ॥ ९ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३