मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् १०

संहिता

अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः ।
तेना॒हं भूरि॑ चाकन ॥

पदपाठः

अ॒श्विनोः॑ । अ॒स॒न॒म् । रथ॑म् । अ॒न॒श्वम् । वा॒जिनी॑ऽवतोः ।
तेन॑ । अ॒हम् । भूरि॑ । चा॒क॒न॒ ॥

सायणभाष्यम्

वाजिनीवतोः । वाजोऽन्नं बलं वा । तद्वत्क्रियावतोरश्विनोरनश्वमश्वरहितमश्वराहित्येऽपि सामर्थ्यातिशयेन गच्छंतं रथमसनम् । आहं स्तोता समभजम् । तेन च रथेन भूरि प्रभूतं श्रेयश्चाकन । कामये ॥ असनम् । वन षण संभक्तौ । लङ् । चाकन । कन दीप्ति कांतिगतिषु । छांदसो लिट् । णलुत्तमो वा (पा ७-१-९१) इति णित्त्वस्य विकल्पनाद्वृद्ध्यभावः । तुजादित्वादभ्यासदीर्घत्वं ॥ १० ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३