मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् १

संहिता

कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।
प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥

पदपाठः

कत् । इ॒त्था । नॄन् । पात्र॑म् । दे॒व॒ऽय॒ताम् । श्रव॑त् । गिरः॑ । अङ्गि॑रसाम् । तु॒र॒ण्यन् ।
प्र । यत् । आन॑ट् । विशः॑ । आ । ह॒र्म्यस॑ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज॑त्रः ॥

सायणभाष्यम्

अष्टादशेऽनुवाके षट् सूक्तानि । तत्र कदित्थेति पंचदशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते । कदित्था पंचोना वैश्वदेवं वेति । अनुवर्तमानः कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा इंद्रो वा देवता ॥ विनियोगो लैंगिकः ॥

नॄः पात्रं नॄन्पाता नृणां स्तुतेर्नेत ॄणां पुरुषाणां रक्षणशील इंद्रस्तुरण्यन् गोरूपधनं प्रेरयन् देवयतां देवं द्योतमानं दानादिगुणयुक्तं वेंद्रमात्मन इच्छतामंगिरसामृषीणामस्माकमित्थेत्थं प्रयुज्यमाना गिरः स्तुतीः कत् कदा कस्मिन्काले श्रवत् । शृणुयात् । यद्यदा स इंद्रो हर्म्यस्य हर्म्योपलक्षितेन गृहेण युक्तस्य यजमानस्य संबंधिनो विश ऋत्विग्लक्षणान्मनुष्याना आभिमुख्येन प्रानट् प्राप्नोति तदानीमध्वरेऽस्मदीये यज्ञे यजत्रो यष्टव्यः सन्नुरु बहुलं क्रंसते । क्रमते । स्वयमेवोत्सहत इत्यर्थः ॥ कत् । कदा । अंत्यलोपश्छांदसः । नॄः पात्रम् । नॄन्पे (पा ८-३-१०) इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेत्य ॄकारः सानुनासिकः । पात्रम् । पा रक्षणे । ताच्छीलिकस्तृन् । व्यत्ययेन । सोरमादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावे यण् । देवयताम् । सुप आत्मनः क्यच् । ततो लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वम् । श्रवत् । श्रु श्रवणे । लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । तुरण्यन् । तुरण त्वरायाम् । कंड्वादिः । आनट् । अश्नोतेर्लङि व्यत्ययेन परस्मैपदम् । श्नौ प्राप्ते व्यत्ययेन श्नम् विकरणः । व्रश्चादिषत्वे जश्त्वम् । आडागमः । हर्म्यस्य । हर्म्यशब्दादर्शआदित्वादच् । क्रंसते । क्रमु पादविक्षेपे । वृत्तिसर्गतायनेषु क्रमः (पा १-३-३८) इत्यात्मनेपदम् । लेट्यडागमः । सिब्बहुलम् । लेटीति सिप् । यजत्रः अमिनक्षीत्यादिना यजेरत्रन्प्रत्ययः ॥ १ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४