मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् २

संहिता

स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।
अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥

पदपाठः

स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णम् । नरः॑ । गोः ।
अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥

सायणभाष्यम्

स इंद्रो द्यां द्युलोकं स्तंभीद्द । स्तभ्नाति खलु । तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्योदकस्य किरणसमूहस्य वा नरो नेता । स इंद्र ऋभुः सूर्यात्मनोरुविस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं वाजायान्नार्थं बलार्थं वा प्रुषायत् । प्रुष्णाति । सिंचति । प्रवर्षतीत्यर्थः । अपि च महिषः । महन्नामैतत् । महान्सूर्यरूपींद्रः स्वजां स्वसकाशागुत्पन्नां व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति व्रा उषाः । तामनु चक्षत । चष्टिः पश्यतिकर्मा । अनुपश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेतीत्यर्थः । अपि चेदमपरमाश्चर्यं यदयमश्वस्यं मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां गोर्मातरं जननीम् । परर्वैपरीत्ये । विपरीतमकरोत् । कदाचिदिंद्रो लीलयाऽश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मंत्रांतरे चेंद्रवाक्यरूप एतद्विस्पष्टमवगम्यते ॥ धरुणम् । धारेर्णीलुक्चेत्युनप्रत्ययः । प्रुषायात् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेट्यडागमः छंदसि शायजपीत्यहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । नॄ नये । बहुलवचनादॄदोरबिति कर्तर्यप् । चक्षत । चक्षिङ् व्यक्तायां वाचि । छांदसो लङ् । बहुलं छंदसीति शपो लुगभावः ॥ २ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४