मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् ५

संहिता

तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।
शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑या॒ः पय॑ उ॒स्रिया॑याः ॥

पदपाठः

तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ ।
शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥

सायणभाष्यम्

हे इंद्र तुरणे क्षिप्रकारिणे तुभ्यं भुरण्यू कृत्स्नं जगत्पोषयंत्यौ पितरावुत्पादयंत्यौ द्यावापृथिव्यौ यद्यदा पयः सांनाय्यलक्षणं हविरनीतां गोष्वनयताम् । न्यधिषातामित्यर्थः । कीदृशं पयः । राधो राधकं समृद्धिकरं सुरेतः शोभनरेतस्कम् । कृत्स्नजगदुत्पादनशक्तमित्यर्थः । हविषः सकाशाद्धि जगदुत्पद्यते । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु ३-७६ । इति । यद्यदा च द्यावापृथिवीभ्यां गोष्वानीतं शुचि शुद्धं सबर्दुघायाः क्षीरस्य दोग्ध्र्या उस्रियाया गोः पयो रेक्णः । धननामैतत् । धनवदतिप्रियम् । यद्वा । अतिरिक्तं प्रवृद्धम् । एवंविधं हविस्तुभ्यमायजंत अभिमुख्येन यजमानाः प्रायच्छन् । तदानीं द्रुहो मानुषस्य द्वाराण्यपवृणोतीति पूर्वया संबंधः । अनीताम् । णीञ् प्रापणे । लङि बहुलं छंदसीति शपो लुक् । सुरेतः । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । तुरणे । तुरण त्वरायाम् । कंड्वादिः । क्विप्चेति क्विप् । आतोलोपयलोपौ । भुरण्यू । भुरण धारणपोषणयोः अयमपि कंड्वादिः । औणादिक उप्रत्ययः ॥ ५ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४