मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् ७

संहिता

स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।
यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥

पदपाठः

सु॒ऽइ॒ध्मा । यत् । व॒नऽधि॑तिः । अ॒प॒स्यात् । सूरः॑ । अ॒ध्व॒रे । परि॑ । रोध॑ना । गोः ।
यत् । ह॒ । प्र॒ऽभासि॑ । कृत्व्या॑न् । अनु॑ । द्यून् । अन॑र्विशे । प॒शु॒ऽइषे॑ । तु॒राय॑ ॥

सायणभाष्यम्

यदि स्विध्मा सुदीप्तास्या वनधितिर्वने छेत्तव्ये वृक्षसमूहे निधातव्या शस्त्र्युपस्यात् । अपो विशसनात्मकं स्वकीयं कर्म कर्तुमिच्छेत् तदानीं सूरः प्रेरकोऽध्वर्युरध्वरे यज्ञे गोः पशो रोधना रोधनाय यूपे नियोजनाय परि भवति । समर्थो भवति । यद्वा । स्विध्मा सूर्यकिरणैः सुदीप्ता वनधितिः । वनमुदकमस्यां धीयत इति वनधितिर्मेघमाला । सा यद्यदापस्यात् अपः प्रवर्षणलक्षणं कर्म करोति तदानीं सूरः प्रेरक इंद्रोऽध्वरे यज्ञस्य निमित्तभूतेऽध्वर्तव्येऽहिंसितव्येऽतरिक्षे वर्तमानः सन् गोर्वृष्ट्युदकस्य रोधना रोधनान्यावरणानि परि परितो निवारयतीति शेषः । उत्तरार्धः प्रत्यक्षकृतः । हे इंद्र सूर्यात्मना वर्तमानस्त्वं कृत्व्यान् । कृत्वीति कर्मनाम । कर्मसु साधून् द्यून् दिवसाननुलक्ष्य यद्ध यदा खलु प्रभासि प्रकर्षेण दीप्यसे तदानीमनर्विशेऽनसा शकटेनेंधनाद्याहरणायारण्यं प्रविशते । यद्वा । गंतव्यं स्थलं प्रति गंतुमशक्ताय । पुरुषाय पश्विषे पशून्प्रेरयते तुराय त्वरमाणाय गोपालाय च सिध्येदभिमतमिति वाक्यशेषः ॥ स्विध्मा । शोभनमिध्मं दीप्तमास्यं दीप्तिर्वा यस्याः सा तथोक्ता । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अपस्यात् । अपःशब्दात्सुप आत्मनः क्यच् । लेट्याडागमः । रोधना । रुधिर् आवरणे । ल्युट्चेति भावे ल्युट् । शेश्छंदसि बहुलमिति शेर्लोपः । अनर्विशे । अनसा विशति प्राप्नोतीन्यनर्विट् । विशतेः क्विप् । अहरादीनां पत्यादिषूपसंख्यानम् । म ८-२-७०-१ । इति सकारस्य रेफादेशः । यद्वा । अर्तेः कर्मणि विच् । अरं गंतव्यं प्रति विशति प्राप्नोतीत्यर्विट् । न अर्विट् अनर्विट् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । पश्विषे । इष गतौ । अस्मादंठर्भावितण्यर्थात् क्विप्चेति क्विप् ॥ ७ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५