मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् ९

संहिता

त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।
कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ॥

पदपाठः

त्वम् । आ॒य॒सम् । प्रति॑ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा॑नम् । उप॑ऽनीतम् । ऋभ्वा॑ ।
कुत्सा॑य । यत्र॑ । पु॒रु॒ऽहू॒त॒ । व॒न्वन् । शुष्ण॑म् । अ॒न॒न्तैः । प॒रि॒ऽयासि॑ । व॒धैः ॥

सायणभाष्यम्

हे इंद्र त्वं गोर्गंतुः शुष्णस्यासुरस्य वधार्थमायसमयोमयं वज्रं प्रति वर्तयः । अभिमुख्येन व्यसृजः । कीदृशं वज्रम् । दिवो द्युलोकादृभ्वा दीप्तेन त्वष्ट्रोपनीतमानीतं अश्मानं शीघ्रं शत्रोर्व्यापकम् । यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेंद्र कुत्सयैतत्संज्ञायर्षये शुष्णं शोषकमसुरमनंतैर्निरवधिकैर्वधैर्हननसाधनैरायुधैर्वन्वन् हिंसन् परियासि परितो गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तय इत्यर्थः ॥ अश्मानं अशू व्याप्तौ अन्येभ्योऽपि दृश्यंत इति मनिन् । ऋभ्वा । जसादिषु छंदसि वावचनमिति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । वनु याचने । अत्र हिंसार्थः । तथा च यास्कः । वनुष्यतिर्हंतिकर्मानवगतसंस्कारो भवति (नि ५-२) इति । वधैः । हनश्च वध इति हंतेः करणेऽप् । तत्संनियोगेन वधादेशश्च । सचादंतोऽंतोदात्तः । तस्यातो लोपे सत्युदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वं ॥ ९ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५