मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् १२

संहिता

त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।
यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । नर्यः॑ । यान् । अवः॑ । नॄन् । तिष्ठ॑ । वात॑स्य । सु॒ऽयुतः॑ । वहि॑ष्ठान् ।
यम् । ते॒ । का॒व्यः । उ॒शना॑ । म॒न्दिन॑म् । दात् । वृ॒त्र॒ऽहन॑म् । पार्य॑म् । त॒त॒क्ष॒ । वज्र॑म् ॥

सायणभाष्यम्

हे इंद्र नर्यो नृभ्यो हितस्त्वं यान्न ॄन्नेतॄनश्वानवः अवसि रक्षिसि तान्वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः सुयुजः शोभनं रथेन युज्यमानान्वहिष्ठा नतिशयेन वोढॄनश्वान्तिष्ठ । अतिष्ठ । आरोहेत्यर्थः । काव्यः कवेः पुत्र उशना मंदिनं मदकरं यं वज्रं ते तुभ्यं दात् दत्तवान् तं वज्रं वृत्रहणं वृत्रस्यासुरस्य घातकं पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च ततक्ष । कृतवानसि ॥ अवः । अवतेर्लेट्यडागमः । इतश्च लोप इतीकारलोप । वहिष्ठान् । वोढॄशब्दात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृलोपः । पार्यम् । पार तीर कर्मसमाप्तौ अस्माण्ण्यंतादचो यदिति यत् । ततक्ष । तक्षू त्वक्षू तनूकरणे । पुरुषव्यत्ययः ॥ १२ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६