मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् १४

संहिता

त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।
प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥

पदपाठः

त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।
प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥

सायणभाष्यम्

हे वज्रिवो वज्रवन्निंद्र त्वं दुर्हणाया दुःखेन हंतव्याया अस्या अवृत्तेर्दारिद्र्यान्नोऽस्मान्पाहि । रक्ष । तथा दुरितात्पापादभीकेऽभिप्राप्ते समीपवर्तिनि संग्रामेऽस्मान्रक्ष । अपि च नोऽस्मभ्यं रथ्यो रथयुक्तान् अश्वबुध्यानश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यंते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छांदसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनमश्वमूलं दासापवर्गम् । यथोक्तम् । दासप्रवर्गं रयिमश्वबुध्यम् । ऋग्वे १-९२-८ । इति । एवंविधान्वाजान् धनानि प्र यंधि । प्रयच्छ । किमर्थम् । इष अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् । तदर्थं च ॥ दुर्हणायाः ईषद्दुःसुष्विति हंतेः कर्मणि खल् । पाहि । पादादित्वान्निघाताभावः । वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । छंदसीर इति मतुपो वत्वम् । संबुद्धौ मतुवसो रुरिति नकारस्य रुत्वम् । रथ्यः । छंदसीवनिपाविति रथशब्दान्मत्वर्थीय ईकारः । यंधि । यम उपरमे । बहुलं छंदसीति विकरणस्य लुक् । वा छंदसीति हेः पित्त्वेन ङित्त्वाभावादङितश्च (पा ६-४-१०३) इति हेर्धिः ॥ १४ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६