मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् १५

संहिता

मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमह॒ः समिषो॑ वरन्त ।
आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ॥

पदपाठः

मा । सा । ते॒ । अ॒स्मत् । सु॒ऽम॒तिः । वि । द॒स॒त् । वाज॑ऽप्रमहः । सम् । इषः॑ । व॒र॒न्त॒ ।
आ । नः॒ । भ॒ज॒ । म॒घ॒ऽव॒न् । गोषु॑ । अ॒र्यः । मंहि॑ष्ठाः । ते॒ । स॒ध॒ऽमादः॑ । स्या॒म॒ ॥

सायणभाष्यम्

हे वाजप्रमहो वाजैर्धनैः प्रमहनीयेंद्र ते त्वदीया सा सुमतिः शोभनानुग्रहरूपा बुद्धिरस्मदस्मासु मा वि दसत् । मा विशुष्यतु । तथेषोऽन्नान्यस्मान् सं वरंतम् । संवृतान्कुर्वंतु । हे मघवन् धनवन्निंद्र अर्यो धनपतिस्त्वं नोऽस्मान् गोष्वा भज । प्रापय । ते तव मंहिष्ठा अतिशयेन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम । पुत्रपौत्रादिभिः सह माद्यंतो भवेम ॥ अस्मत् । सुपां सुलुगिति सप्तम्या लुक् । दसत् । दसु उपक्षये । माङि लुङि पुषादित्वादङ् । वाजप्रमहः । वाजैर्धनैः प्रकृष्टं महस्तेजो यस्य स तथोक्तः । पादादित्वादाष्टमिकनिघाताभावः । षाष्ठिकमामंत्रिद्युदात्तत्वम् । वरंत । वृञ् वरणे । व्यत्ययेन शप् । गोषु सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः । अर्यः । अर्यः स्वामिवैश्वयोरिति निपात्यते । अर्यः स्वाम्याख्या चेत् (फि १-१८) इत्यंतोदात्तत्वम् । मंहिष्ठाः । महि वृद्धौ । इदित्वान्नुम् । अर्सादंतर्भावितण्यर्थात्तृच् । शुश्छंदसीतीष्ठन् । तुरिष्ठेमेयः स्विति तृलोपः । सधमादः । मद तृप्तियोगे । चौरादिकः । सह मादयंते तृप्ता भवंतीति सधमादः । क्विप्चेति क्विप् । जस् । सधमादस्थयोश्छंदसीति सहस्य सधादेशः ॥ १५ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६