मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् २

संहिता

पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने ।
स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥

पदपाठः

पत्नी॑ऽइव । पू॒र्वऽहू॑तिम् । व॒वृ॒धध्यै॑ । उ॒षसा॒नक्ता॑ । पु॒रु॒धा । विदा॑ने॒ इति॑ ।
स्त॒रीः । न । अत्क॑म् । विऽउ॑तम् । वसा॑ना । सूर्य॑स्य । श्रि॒या । सु॒ऽदृशी॑ । हिर॑ण्यैः ॥

सायणभाष्यम्

पत्नीव पत्नीयथापूर्वहूतिंपत्युः पूर्वाह्वानंववृधध्यै वर्धयितुंशीघ्रगतिर्भवतितद्वत् उषासानक्ता अहोरात्रदेवतेअपि पुरुधा बहुप्रकारंबहुविधैः स्तोत्रैःविदानेज्ञायमाने सत्यौ पूर्वहूतिं ववृधध्यै अस्म- दीयंपूर्वाह्वानंवर्धयितुंशीघ्रमागच्छ्तमितिशेषः उषासानक्ता उषासोषसइतिपूर्वपदस्योषासादेशः देवताद्वन्द्वेचेत्युभयपदप्रकृतिस्वरत्वम् अथकेवलोषाउच्यते—स्तरीः शत्रूणांहिंसकस्तेजसा च्छन्नो- वाआदित्यः सइवहिरण्यैर्हिरण्यवर्णैरश्मिभिः व्युतंविततंविशेषेणसंबद्धं अत्कंअक्तं सन्ततंवारूपंवसा- नाआच्छादयन्तीधारयन्ती सूर्यस्यश्रियाशोभयासुदृशी शोभनंदृश्यमाना सूर्यस्यपुरोगामिनीरश्मि- भिःखल्वेषाजगद्भासयति तादृश्युषा अस्मत्पूर्वहूतिंपालयत्वित्यर्थः यद्वा हिरण्यैर्हितरमणीयैः प्रका- शैर्धनविशेषैर्वासहागच्छतु ॥ व्युतं व्येञोनिष्ठायां वचिस्वपीत्यादिनासंप्रसारणम् । स्तरीः अवितृ- स्तॄइतीकारप्रत्ययः ॥ २ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः