मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् ३

संहिता

म॒मत्तु॑ न॒ः परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् ।
शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥

पदपाठः

म॒मत्तु॑ । नः॒ । परि॑ऽज्मा । व॒स॒र्हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्ऽवान् ।
शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥

सायणभाष्यम्

नोऽस्मान्वसर्हा वसनार्होगार्हपत्यादिरूपेण यद्वा वासकानमाच्छादकानांवृक्षादीनांहन्ताग्निः अथवा वसर्हावासार्होवासरस्यगमयिता परिज्मा परितोगन्ता आदित्योममत्तुमादयतु तथाअपां वृष्ट्युदकानां वृषण्वान्वर्षणवान् वृष्ट्युत्पादकोवातोवायुः अस्मान्ममत्तु किञ्च हे इन्द्रापर्वता इन्द्रः प्रसिद्धः पर्वतः पर्ववान्वृष्ट्यादिपूरणवान्पर्जन्यस्तौयुवंयुवांनोऽस्मानस्मद्बुद्धिंवाशिशीतं तीक्ष्णी- कुरुतं शोधयतमित्यर्थः तत्तस्मात् यस्मादहंसर्वान्देवान्स्तौमि तस्माद्विश्वेसर्वेऽपिदेवाःनोऽस्माकंवरि- वस्यन्तु प्रभूतन्नंदातुमिच्छन्तु समृद्धान्नप्रदानेनप्रीणयन्त्वित्यर्थः ॥ ममत्तु मदीहर्षे अन्तर्भावितण्यर्था- ल्लोटिछान्दसोविकरणस्यश्लुः द्विर्वचनम् । शिशीतं ईहल्यघोरितीत्वम् बहुलंछन्दसीत्यभ्यासस्येत्व- म् । इन्द्रापर्वतेत्यत्र देवताद्वन्द्वेचेतिपूर्वपदस्यानङादेशः ॥ ३ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः