मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् ४

संहिता

उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ॑शि॒जो हु॒वध्यै॑ ।
प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥

पदपाठः

उ॒त । त्या । मे॒ । य॒शसा॑ । श्वे॒त॒नायै॑ । व्यन्ता॑ । पान्ता॑ । औ॒शि॒जः । हु॒वध्यै॑ ।
प्र । वः॒ । नपा॑तम् । अ॒पाम् । कृ॒णु॒ध्व॒म् । प्र । मा॒तरा॑ । रा॒स्पि॒नस्य॑ । आ॒योः ॥

सायणभाष्यम्

औशिजः उशिजः पुत्रः कक्षीवान् अहं मे तादर्थ्येचतुर्थी मदर्थंयशसा यश इत्यन्नंबलंकीर्तिर्वोच्यते तद्वन्तौ व्यन्ता भक्षयन्तौ चरुपुरोडाशादिकं पान्तापिबन्तावाज्यसोमादिकं त्या तच्छब्दसमानार्थः त्यच्छब्दः यौस्तुत्यत्वेनप्रसिद्धौतावश्विनौ अत्रयद्यपिविशेषोनश्रुतः तथापिसूक्तस्यवैश्वदेवत्वादुषः संबन्धाद्विवचनलिङ्गाच्चाश्विनावितिगम्यते तादृशावश्विनौ श्वेतनायै इतिषष्ठ्यर्थेचतुर्थी विश्वंजग- च्छ्वेतयन्त्याउषसःतत्संबन्धिनिकाले उषःकालीनाह्वानाय यजेयमितिशेषः हेऋत्विजः वोयूयंप्रथ- मार्थेद्वितीया अपामुदकानां नपातंनपातयितारं तासांनप्तारंवाग्निं अद्भ्यः ओषधिवनस्पतयःताभ्योऽ- ग्निरित्यपांनप्तृत्वमग्नेः तंदेवंकृणुध्वम् करोतिरत्रक्रियासामान्यवाचीक्रियाविशेषेस्तोत्रेपर्यवस्यति प्र- कर्षेणस्तुध्वमित्यर्थः किञ्च रास्पिनस्य रपतेरसतेर्वाशब्दनार्थस्यघञन्तस्य कृतसकारपकारोपजन- स्यरास्पइतिभवति तदस्यास्तीतिरास्पिस्तोत्रं तद्वान् रास्पिनः स्तोता तस्य आयोः तादृशस्यमनुष्य- स्यमम मह्यंमातरामातृवद्धितकारिण्यावहोरात्रदेवतेअपिप्रकृणुध्वं अथवा रास्पिनस्य एकोमत्वर्थे- प्रत्ययश्छान्दसः प्रवर्षणध्वनियुक्तस्यवृष्ट्युदकस्यगमनशीलस्य निर्मात्र्यावहोरात्रेप्रकृणुध्वम् ॥ व्यन्ता पान्ता उभयत्र सुपांसुलुगित्याकारः ॥ ४ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः