मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् १४

संहिता

हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ।
अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥

पदपाठः

हिर॑ण्यऽकर्णम् । म॒णि॒ऽग्री॒व॒म् । अर्णः॑ । तम् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ।
अ॒र्यः । गिरः॑ । स॒द्यः । आ । ज॒ग्मुषीः॑ । आ । उ॒स्राः । चा॒क॒न्तु॒ । उ॒भये॑षु । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हिरण्यकर्णं हिरण्यविकारकुण्डलाद्युपेतकर्णं मणिग्रीवंरत्नाद्युपेतकंठं एतदृवयंसर्वावयवस्याप्यु- पलक्षणमेवंसर्वांगाभरणयुक्तं तत्प्रसिद्धंअर्णः अरणीयंरूपं तद्वन्तंपुत्रादिकमित्यर्थः उक्तलक्षणंअस्म- दीयंरूपंवानोऽस्माकं विश्वेसर्वेदेवावरिवस्यन्तु परिचरन्तु प्रयच्छन्त्वित्यर्थः अर्यः अरणीयः विश्वे- षांदेवानां सद्योजग्मुषीस्तोतुर्मुखान्निर्गच्छन्तीर्गिरःस्तुतीः उस्राः विकारेप्रकृतिशब्दः क्षीराज्यादीनि हवींषिच सद्यः अस्मदागमनानन्तरमेवचाकन्तुकामयन्तां छान्दसः शपः श्लुः परस्मैपदंच । यद्वा यङ्लुकिनुगभावः आचकन्त्वितिवायोज्यं पर्याप्तं कामयन्तामित्यर्थः केष्वितितदुच्यते—अस्मेअस्मा- कंसंबन्धिषूभयेषुस्तोतृषुयष्टृषुच यद्वा अस्माकंउभयेषुऎहिकामुष्मिकविषयेषूभयविधेषुफलेषु ॥ १४ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः