मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् १

संहिता

पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः ।
कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥

पदपाठः

पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । ए॒न॒म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ ।
कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥

सायणभाष्यम्

दक्षिणायाः प्रवृद्धायाः स्वव्यापारकुशलायाः उषोदेवतायाः पृथुर्विस्तीर्णोरथः अयोजि अश्वैर्युक्तः सन्नद्धोभूत् अत्रयद्यपिदेवताविशेषोनश्रुतः तथाप्युषस्यत्वादुषसइतिगम्यते एनंसन्नद्धं रथं अमृतासः- अमरणधर्माणोदेवासोदेवनशीलाहविर्भाजोदेवाः आस्थुः आस्थितवन्तः देवयजनंगन्तुंआरूढाइत्यर्थः अनन्तरंसोषाः कृष्णात् निकृष्टवर्णान्नैशात्तमसः सकाशात् उदस्थात् उत्थिताभूत् कृष्णंकृष्यतेर्निकृष्टो- वर्णइतियास्कः । कीदृशीसा अर्याअरणीयापूजनीया विहायाः विविधगमनयुक्तामहतीवा विहाया- इतिमहन्नाम विहायाः यह्वइतितन्नामसुपाठात् मानुषायक्षयाम मनुष्याणांनिवासायचिकित्सन्ती अन्धकारनिवारणरूपांचिकित्सांकुर्वतीतमोनिवारयन्तीत्यर्थः ॥ १ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः