मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् २

संहिता

पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री ।
उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥

पदपाठः

पूर्वा॑ । विश्व॑स्मात् । भुव॑नात् । अ॒बो॒धि॒ । जय॑न्ती । वाज॑म् । बृ॒ह॒ती । सनु॑त्री ।
उ॒च्चा । वि । अ॒ख्य॒त् । यु॒व॒तिः । पु॒नः॒ऽभूः । आ । उ॒षाः । अ॒ग॒न् । प्र॒थ॒मा । पू॒र्वऽहू॑तौ ॥

सायणभाष्यम्

विश्वस्मद्भुवनात्सर्वस्मात्सुप्ताद्भूतजातात्पूर्वाप्रथमासतीयमुषाः अबोधि बुद्धाभूत् उषः काल- मवगत्यहिपश्चात्सर्वेप्राणिनः प्रतिबुद्ध्यन्ते कीदृशीसा वाजंगमनशीलं प्रकाशंनिरवर्त्यंधकारंजयन्ती- पराभवंकुर्वती यद्वा वाजशब्दोऽन्ननामसुपठितत्वादन्ननाम अन्नंवैवाजइतिश्रुतेश्च । यजमानार्थंअन्नंसं- पादयन्तीबृहती महती सनुत्री सर्वंजगत्संभजन्ती दात्रीवाप्रकाशस्य किंच सोषाउच्चाउच्चैःउन्नतासतीव्यख्यत् विचष्टेसर्वंजगत्पश्यतीत्यर्थः कीदृशीसायुवतिः मिश्रणशीला नित्ययौवनावा पुनर्भूः पुनःपुनर्भवनशीलाप्रतिदिनंवर्तमानत्वात् सोषाःपूर्वहूतौसत्यांप्रथमामुख्याप्र कृष्टासती आगन् देवयज-नदेशंप्रत्यागच्छति प्रथमइतिमुख्यनाम प्रतमोभवतीतियास्कः । इतरदेवेभ्यः पूर्वमाहूतासती शीघ्रमेवागच्छतीत्यर्थः ॥ २ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः