मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् ४

संहिता

गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना ।
सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥

पदपाठः

गृ॒हम्ऽगृ॑हम् । अ॒ह॒ना । या॒ति॒ । अच्छ॑ । दि॒वेऽदि॑वे । अधि॑ । नाम॑ । दधा॑ना ।
सिसा॑सन्ती । द्यो॒त॒ना । शश्व॑त् । आ । अ॒गा॒त् । अग्र॑म्ऽअग्रम् । इत् । भ॒ज॒ते॒ । वसू॑नाम् ॥

सायणभाष्यम्

अहनाउषोनामैतत् अहनाद्योतनेतितन्नामसुपाठात् सादेवी दिवेदिवे प्रत्यहं दिवेदिवेद्यविद्यवी- त्यहर्नामसुपाठात् गृहंगृहंतद्यज्ञगृहं अच्छआभिमुख्येनयातिगच्छति कीदृशी अधिअधिकंनामनमनं प्रह्वत्वं प्रतिहतमुद्योगंप्रकाशनरूपंदधाना धारयन्ती यद्वा अधिदधाना अधिकंधारयन्ती किञ्च सि- षासन्ती संभक्तुमिच्छन्ती द्योतना कृत्स्नंजगत् द्योतनशीला शश्वत् प्रतिदिनंआगादागच्छति पूर्वं- यातीत्युक्तत्वात्पुनरागादितिवचनमावश्यकत्वद्योतनार्थम् आगत्यचवसूनांधनानां हविर्लक्षणानां अग्रमग्रमित् तत्तच्छ्रेष्ठभागंभजते सेवते स्वीकरोतीत्यर्थः ॥ ४ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः