मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् ५

संहिता

भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व ।
प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥

पदपाठः

भग॑स्य । स्वसा॑ । वरु॑णस्य । जा॒मिः । उषः॑ । सू॒नृ॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ ।
प॒श्चा । सः । द॒घ्याः॒ । यः । अ॒घस्य॑ । धा॒ता । जये॑म । तम् । दक्षि॑णया । रथे॑न ॥

सायणभाष्यम्

सूनृते सुष्ठुमनुष्याणांनेत्रिउषः हेउषोदेवते भगस्य सर्वैर्भजनीयस्यादित्यस्य स्वसासि स्वसृस्था- नीयासि तेनसहोत्पद्यमानत्वात् तद्वत्पूज्येत्यर्थः तथावरुणस्य तमोवारकस्य सवितुर्देवस्यजामिरसि भगिनीस्थानीयासि एकस्मिन्नेवस्थानेउत्पद्यमानत्वात् जनयन्त्युत्पादयन्त्यस्यामपत्यमन्येइतिजा- मिः यद्वा जमतिगच्छति स्वोत्पत्तिस्थानादन्यत्रेतिउक्तनिर्वचनद्वयमभिप्रेत्ययास्कआह—नजामयेभ- गिन्यैजामिरन्येऽस्यांजनयन्तिजामपत्यंजमतेर्वास्याद्गतिकर्मणोनिर्गमनप्रायाभवतीति । तादृशीत्वं प्रथमाइतरदेवेभ्यः पूर्वाउत्कृष्टावासती जरस्वस्तुताभव जरतिः स्तुत्यर्थः जरास्तुतिर्जरतेःस्तुतिकर्म- णइतियास्कः । पश्चा पश्चात्त्वत्प्रीत्यनन्तरं योअघस्यधाता यः कश्चिद्दुःखस्यतदुत्पादकपापस्यवा- धारयितास्ति सदघ्याः गच्छतु वचनव्यत्ययः दघ्यतिर्गत्यर्थः दघ्यतिर्दभ्नोतीतिगत्यर्थेषुपाठात् यदि- सपापीबलीयान्तंदक्षिणयाप्रवृद्धयासहायभूतयात्वया रथेनअस्मदीयरथादिसाधनेनचजयेम ॥ ५ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः