मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् ६

संहिता

उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः ।
स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥

पदपाठः

उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ ।
स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥

सायणभाष्यम्

सूनृताः प्रियसत्यात्मिकावाचः उदीरतां उद्गच्छन्तु हेऋत्विजः उत्कृष्टंयथाभवतितथा स्तोत्रं प्रवर्तयध्वं तथापुरन्धीः पुरन्धयः पुरंशरीरंयासुधीयतेयाभिर्वाताः पुरन्धयःप्रज्ञाः प्रयोगविषयाःता- अप्युन्मिषन्तु प्रज्ञोपलक्षितानिकर्माणिप्रवर्तन्तामित्यर्थः यद्यपिप्राणवायुनाशरीरंधार्यते तथापि योवैप्राणः साप्रज्ञायावाप्रज्ञासप्राणइतिश्रुतेः । प्राणप्रज्ञयोरेकत्वात्प्रज्ञायाः शरीरधारणमविरुद्धम् तथा अग्नयः आहवनीयाद्याः शुशुचानासः अत्यन्तंदीप्यमानाः उदस्थुः उत्तिष्ठन्तु प्रज्वलयन्त्वित्यर्थः किमर्थमेवमितितदुच्यते यतोविभातीः विविधंभासनानाः उषसः उषोदेवतास्तमसापगूह्ळाअन्ध- कारेणात्यन्तंगोपितानि स्पर्हा स्पृहणीयानि वस्तूनिवासयोग्यानि यज्ञसाधनभूतहविरादीन आवि- ष्कृण्वन्ति यथावस्तुप्रकटीकुर्वन्ति तस्मात्स्तोत्रादिकंकुर्वन्त्वित्यर्थः ॥ ६ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः