मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् ९

संहिता

जा॒न॒त्यह्न॑ः प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची ।
ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥

पदपाठः

जा॒न॒ती । अह्नः॑ । प्र॒थ॒मस्य॑ । नाम॑ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची ।
ऋ॒तस्य॑ । योषा॑ । न । मि॒ना॒ति॒ । धाम॑ । अहः॑ऽअहः । निः॒ऽकृ॒तम् । आ॒ऽचर॑न्ती ॥

सायणभाष्यम्

उषाः प्रथमस्यमुख्यस्यप्रथमानस्य वाह्नोदिवसस्यनामनमनमागमनंजानतीअवगच्छन्तीप्राणि- नांप्रज्ञापयन्तीत्यर्थःसोषाःशुक्रास्वतोदीप्ता अतएव श्वितीचीश्वैत्यंगच्छन्ती प्रकाशं प्राप्नुवन्ती कृष्णा- न्निकृष्टात्तमसःसकाशादजनिष्ट प्रादुर्भवति यद्यपितमसःसकाशान्नोत्पद्यते तथापि तदनन्तरभावि- त्वात्ततौत्पद्यतेइत्युपचर्यते उत्पन्नासा ऋतस्य सत्यभूतस्यादित्यस्यधाम तेजोयुक्तंस्थानं योषामिश्र- यन्तीनमिनातिनहिनस्ति तदीयंतेजोनपराभवति अपितुअहरहः सर्वेष्वहः सुनिष्कृतमाचरन्तीअलं- कारशोभांकुर्वती यद्वा ऋतस्य सत्यभूतस्ययज्ञस्यधामदेवयजनाख्यं स्थानं योषामिश्रणशीलासती नमिनाति नहिनस्ति किंतु अहरहः सर्वेषु यागदिवसेषुनिष्कृतं हविरादीनांप्रकाशनरूपमलंकारं आचरन्तीकुर्वती तादृश्युषा अजनिष्टेतिपूर्वत्रान्वयः ॥ ९ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः