मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् १०

संहिता

क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् ।
सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥

पदपाठः

क॒न्या॑ऽइव । त॒न्वा॑ । शाश॑दाना । एषि॑ । दे॒वि॒ । दे॒वम् । इय॑क्षमाणम् ।
स॒म्ऽस्मय॑माना । यु॒व॒तिः । पु॒रस्ता॑त् । आ॒विः । वक्षां॑सि । कृ॒णु॒षे॒ । वि॒ऽभा॒ती ॥

सायणभाष्यम्

तन्वाशरीरेणशाशदाना शाशाद्यमानास्पष्टतांप्राप्नुवती शाशदानःशाशाद्यमानइतियास्कः । कन्येवकमनीयाकन्यकेव कन्याकमनीयाभवतिक्वेयंनेतव्येतिवेतियास्कः । सायथाजनान्तिकेवि- वसनासंचरति तथा हेउषः त्वं कन्याकमनीयाप्रगल्भासतीतन्वाशरीरेणशाशदानास्पष्टतांगच्छन्ती द्रुश्यसे पश्चात्प्रगल्भासती हेदेविदेवनशीले इयक्षमाणं यष्टुमिच्छन्तं अभिमतंदातुमिच्छन्तं वा- देवंद्योतनस्वभावंसूर्यरूपंप्रियंएषिगच्छसि ततः पश्चाद्युवतिर्यौवनोपेतासतीपुरस्तात्पत्युः सूर्यस्य पुरतः संस्मयमानासमीषद्धसन्ती हास्यंकुर्वतीविभातीअत्यन्तंभासमाना वक्षांसिवक्षसोपलक्षि- तानवयवानाविष्कृणुषेप्रकटीकरोषि यद्वा युवतिरितिलुप्तोपमा यथालोकेप्रगल्भायोषित् पुरस्ता- त्प्रियतमस्यपुरतः संस्मयमानादन्तप्रदर्शनाय ईषद्धसनंकुर्वती वक्षांसिवक्षसोपलक्षितानिगोप्या- निबाहुमूलस्तनादीनि आविष्करोति तथात्वमपीत्यर्थः यद्वा पुरस्तात्पूर्वस्यांदिशि संस्मयमाना स्मितोपमप्रकाशंकुर्वती युवतिः सर्वेषुभावेषुमिश्रणशीलावक्षांसिवक्षइतिरूपनाम दन्तस्थानीया- निनीलपीतादीनिरूपाण्याविष्करोषि ॥ १० ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः