मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् १

संहिता

उ॒षा उ॒च्छन्ती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् ।
दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥

पदपाठः

उ॒षाः । उ॒च्छन्ती॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । उ॒त्ऽयन् । सूर्यः॑ । उ॒र्वि॒या । ज्योतिः॑ । अ॒श्रे॒त् ।
दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । नु । अर्थ॑म् । प्र । अ॒सा॒वी॒त् । द्वि॒ऽपत् । प्र । चतुः॑ऽपत् । इ॒त्यै ॥

सायणभाष्यम्

एषोषाः समिधाने अग्नौ अग्नित्वसामान्येनिकवचनं अग्निषुसमिध्यमानेषुसत्सुकर्मार्थेकर्तृप्रयोगः उषः कालेह्याहवनीयादयः प्रज्वाल्यन्ते उच्छन्तीतमोविवासयन्तीउर्वियाउरुबहुलं ज्योतिः प्रकाशं अश्रेत् सेवते प्रकाशते प्रकाशयतिवासर्वं किमिव उद्यन्सूर्यः उपमाप्रधाननिर्देशः उदितः सूर्यइव सूर्योयथाप्रकाशयतितथेत्यर्थः अत्रत्वदुदयानन्तरं अस्मिन्कर्मणिवासवितादेवः सर्वस्य प्रेरकः सूर्यो- नोऽस्मदर्थंनुक्षिप्रं अर्थंअर्थंशब्दोत्रविशेषणवाची नपुंसकलिंगः अयंनर्थानिक्रुणवन्नपांसीत्यादौतथा- दृष्टत्वात् । अरणीयंद्विपत् पादद्वयोपेतं मनुष्यादिरूपंधनंप्रासावीत्अनुजानातुददात्वित्यर्थः तथा चतुष्पत् पादचतुष्टयोपेतंगवादिरूपंधनंप्रासावीत् किमर्थं इत्यै द्विपदांचतुष्पदांचगमनाय यद्वा नइ- त्याइतिसंबन्धः अस्मद्गमनागमनादिव्यापारायेत्यर्थः ॥ १ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः