मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् ५

संहिता

पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् ।
व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णन्ती॑ पि॒त्रोरु॒पस्था॑ ॥

पदपाठः

पूर्वे॑ । अर्धे॑ । रज॑सः । अ॒प्त्यस्य॑ । गवा॑म् । जनि॑त्री । अ॒कृ॒त॒ । प्र । के॒तुम् ।
वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । आ । उ॒भा । पृ॒णन्ती॑ । पि॒त्रोः । उ॒पऽस्था॑ ॥

सायणभाष्यम्

अप्त्यस्यव्यापनशीलस्य विसृतस्यरजसोरञ्चकस्यान्तरिक्षलोकस्य रजः शब्दोऽन्तरिक्षलोकवाची लोकारजांस्युच्यन्तेइतियास्केनोक्तत्वात् । तस्यपूर्वेअर्धेपूर्वस्मिन् भागेजनित्री उत्पन्नासती गवांदि- शांरश्मीनांवाकेतुंप्रज्ञानंप्राकृतप्रकर्षेणकरोति यद्वा रजसोरंजकस्याह्नः रजः शब्दोहर्वाची असृगह- नीरजसीउच्येते इतियास्केनोक्तत्वात् । तस्यपूर्वेर्धेपूर्वस्मिन्भागेउषः कालेगवांवाचांजनित्रीजनयि- त्रीउत्पादयित्री उषःकालेसर्वेषांप्राणिनांवाचः स्फुरन्तीतिप्रसिद्धम् यद्वा अप्त्यस्य कर्मसुस्थितस्य- जन्तोः केतुंगमनादिरूपंकर्म । केतुरितिकर्मनाम केतः केतुरितितन्नामसुपाठात् प्राकृतप्रकर्षेणकरोति किंच पित्रोः पालयित्र्योर्द्यावापृथिव्योः उपस्थाउपस्थेउत्सङ्गेअन्तरालप्रदेशेस्थित्वाउभाउभेद्यावा- पृथिव्यौ पृणन्तीस्वतेजसापूरयन्ती यद्वा उभाउभयोः पित्रोरितिसंबन्धः वितरंविशिष्टतरं वरीयः उरुतरंअतिविस्तीर्णंयथाभवतितथाव्युप्रथतेविशेषेणैवप्रख्याताभवति प्रकाशतइत्यर्थः उशब्दोवधार- णार्थःपादपूरणोवा मिताक्षरेष्वनर्थकाः कमीमिद्वितीति यास्केनोक्तत्वात् ॥ ५ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः